कृत्स्थः यो नकारः अचः उत्तरः तस्य उपसर्गस्थान् निमित्तादुत्तरस्य णकारादेशो भवति। अन, मान, अनीय, अनि, निष्ठादेश एते णत्वं प्रयोजयन्ति। अन प्रयाणम्। परियाणम्। प्रमणम्। परिमाणम्। मान प्रयायमाणम्। परियायमाणम्। अनीय प्रयाणीयम्। परियाणीयम्। अनि अप्रयाणिः। अपरियाणि। इनि प्रयायिणौ। परियायिणौ। निष्ठादेश प्रहीणः। परिहीणः। प्रहीणवान्। परिहीणवान्।
अचः इति किम्? प्रमग्नः। परिभुग्नः। भुजो कौटिल्ये, अस्य निष्ठाप्रत्ययः, ओदितश्च
८।२।४५ इति निष्ठानत्वम्, चोः कुः
८।२।३० इति कुत्वे सिद्धं परिभुग्नः इति। कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानं कर्तव्यम्। निर्विण्ण्नो ऽस्मि खलसङ्गेन। निर्विण्णो ऽहमत्र वासेन।
"कृत्स्थो यो नकारोऽच उत्तरः" इति। एतेनाद्य इति नकारस्येवं विशेषणम्()। न तु कृत इति दर्शयति। यदि कृत एव विशेषणं स्यात्(), "प्रवपणम्" इत्यत्र णत्वं न स्यात्(), न ह्रत्र कृदचः परः। नकारस्तु सम्भवत्येव। यदि कृत एतद्विशेषणं स्यात्, तदा "न भाभूपूकमिगमिप्यायी"
८।४।२३ इत्यादौ कम्यादीनां ग्रहणमनर्थकं स्यात्(), प्राप्त्यभावात्()। न ह्रेतेभ्यो यः कृद्विधीयते सोऽचः परः सम्भवति; तेषामनजन्तत्वात्()। तस्मान्नकारस्येदं विशेषणं युक्तम्()। कृत्स्थानां येषां णत्वं सम्भवति,
तान्? दर्शयितुमाह--"अनमानानीयानि" इत्यादि। अन--योरादेशः। मानः--आगतमुका शानच्()-कानच्()-चानशः। अनीयर्()-तव्यदादि
३।१।९६ सूत्रेण यो विहितः। अनिः--"आक्रोशे नञ्यनिः"
३।३।११२ इति, इनिः--"सुप्यजातौ णिनिस्ताच्छील्ये"
३।२।७८ इति, "आवश्यकाधमण्र्ययोरिनिः"
३।३।११२ इति, इनिः--"सुप्यजातौ णिनिस्ताच्छील्ये"
३।२।७८ इति, "आवश्यकाधमण्र्ययोरिनिः"
३।३।१७० इति; अयञ्च उत्सृष्टानुबन्धः। निष्ठादेशः--"रदाभ्यां निष्ठातो नः"
८।२।४२ इति प्रकरणे यो विहितः। "प्रयाणम्()" इति। पूर्ववद्यातेर्ल्युट्()। "प्रयायमाणम्()" इति। कर्मणि लकारः। शानच्(), यक्(), "आने मुक्()"
७।२।८२ इति मुक्()। "प्रयाणीयम्()" इति। अनीयर्()। "अप्रयाणिः" इति। आक्रोशे नञ्यनिः"
३।३।११२। "प्रयायिणौ" इति। "आतो युक्चिण्कृतोः"
७।३।३३ इति युक्()। "प्रहीणः" इति।
"ओहाक्? त्यागे" (धा।पा।१०९०)। "ओदितश्च"
८।२।४५ इति तकारस्य नकारः; "धुमास्था"
६।३।६५ त्यादिनेत्त्वम्()।
"प्रमग्नः" इति। "टु मस्जो शुद्धौ" (धा।पा।१४१५), "मस्जिनशोर्झलि"
७।१।६० इति नुम्()।
सच भवञ्जकारात्? ["भवञ्चकारात्()"--कांउ।पाठः] पूर्वो भवति;
"मस्जेरन्त्यात्? पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपाथम्()" (वा।७) इति वचनात्()। "अनिदितातम्"
६।४।२४ इत्यादिनास्य नकारलोपः, "स्कोः"
८।२।२९ इत्यादिना सकारस्य च। "चोः कुः"
८।२।३० इति कुत्वम्()। "परिभुग्वः" इति। "भुञो कौटिल्ये" (धा।पा।१४१७)।
"निर्विण्णः" इति। लाभसत्ताविचारणार्थानां विदीनामन्यतमस्य रूपम्(), न "विद ज्ञाने" (धा।पा।१०६४) इत्यस्य;
सेट्त्वात्? सस्य। अत्राच उत्तरो न भवति, तस्मान्निर्विण्णस्य सिद्धय उपसंख्यानम्()=प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रैदं प्रतिपादनम्()--पूर्वसूत्राद्बहुलवचनमनुवत्र्तते, तेनानचोऽपि परस्य भविष्यतीति॥
कृत्यचः। उपसर्गादित्यनुवर्तते, रषाभ्यामिति च। तत्र तात्स्थ्यात्ताच्छब्द्यमित्याह--- उपसर्गस्थादिति। कृत्स्थस्य नस्येति। "अच उत्तरस्ये" त्यस्य कृतो विशेषणत्वे तु प्रयापणमित्यादौ न स्यादिति भावः। प्रमग्न इति। "टुमस्जो शुद्धौ" , "ओदितश्चे"ति निष्ठानत्वं, तस्याऽसिद्धत्वात् "स्को"रिति सलोपः, "चोः कुः"।
* निर्विण्णस्योपसङ्ख्यानम्। निर्विणस्येति। विदेः क्तस्य "रदाभ्या"मिति नत्वं, पूर्वस्य दस्य च।